________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम् दशम उद्देशकः १५८९ (A)
संतविभवेहि तुल्ला धिति-संघयणेहि जे उ संपन्ना। ते आवण्णा सव्वं वहति निरणुग्गहं धीरा ॥ ४१८१॥ [जी.भा.२९९]
ये धृति-संहननाभ्यां सम्पन्नाः युक्ताः सद्विभवैस्तुल्याः । ते धीराः सर्वमापन्नप्रायश्चित्तं निरनुग्रहम् अनुग्रहरहितं वहन्ति ॥ ४१८१ ।।
संघयण-धितीहीणा असंतविभवेहि होति तुल्ला उ । निरवेक्खो जइ तेसिं देति ततो ते विणस्संति ॥४१८२॥ [जी.भा.३००]
ये पुनः धृति-संहननाभ्यां हीनास्ते असद्विभवैस्तुल्याः। तेषां यदि निरपेक्षस्सन् निरवशेषं प्रायश्चित्तं ददाति ततस्ते विनश्यन्ति। तथाहि-ते तत् प्रायश्चित्तं निरवशेषं वोढुमशक्नुवन्तः तपसा कृशीकृता जीवितादपगच्छेयुः ॥ ४१८२॥
ते तेणं परिचत्ता, लिंगविवेगं तु काउ वच्चंति । तित्थुच्छेदो अत्ता, एगाणियतेण चत्तो यं ॥ ४१८३॥ [जी.भा.३०१] १. इतोऽने जीतकल्प भाष्ये ३०२ गाथा-"ते उद्वेत्तु पलाणा, पच्छा एकाणियो तयो होति। ताहे किंतु करेतू? एवं अप्पा परिच्चत्तो॥"
गाथा
४१७७-४१८४ सापेक्षप्रायश्चित्तगुणाः
|१५८९ (A)
For Private And Personal