________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशः
१५८४ (B)
www.kobatirth.org
च प्रथमसंहनन-चतुर्दशपूर्विणौ समकं व्यवच्छिन्नौ । तयोश्च व्यवच्छिन्नयोरनवस्थाप्यं पाराञ्चितं च व्यवच्छिन्नम् । ततः परेण अनवस्थाप्य पाराञ्चितव्यवच्छेदादर्वाग् अष्टविधं प्रायश्चित्तं तावदनुषजद्- अनुवर्त्तमानं बोद्धव्यं यावत् तीर्थम् । तीर्थव्यवच्छेदकाले च दुष्प्रसभो नाम सूरिर्भविष्यति, तस्मिन् कालगते तीर्थं चारित्रं च व्यवच्छेत्स्यति ॥ ४१६१ ॥
यदप्युक्तम् " देंता वि न दीसंति" इत्यादि तत्राह
Acharya Shri Kailashsagarsuri Gyanmandir
दोसु य वोच्छिन्ने, अट्ठविहं देंतया करेंता य ।
न विकेई दीसंती, वयमाणे भारिया चउरो ॥ ४१६२ ॥ [ जी.भा. २७९]
द्वयोः अनवस्थाप्य पाराञ्चितयोरथवा प्रथमसंहनन-चतुर्दशपूर्विणोर्व्यवच्छिन्नयोरष्टविधं प्रायश्चित्तं ददतः कुर्वतो वा केचिन्न दृश्यन्ते इति वदति परस्मिन् प्रायश्चित्तं चत्वारो भारिताः गुरुका मासाः ॥ ४१६२ ॥
दो वि वोच्छिन्ने, अट्ठविहं देंतया करेंता य ।
पच्चक्खं दीसंते जहा तहा मे निसामेहि ॥ ४१६३ ॥ [ जी.भा. २८०]
For Private And Personal
****
गाथा
|४१६०-४१६८ अष्टविधं
प्रायश्चित्तम्
१५८४ (B)