________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देश :
१५८४ (A)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
आलोयण १ पडिकमणेर, मीस३ विवेगे४ तहा विउस्सग्गे ५ । तव६ छेय७ मूल८ अणवट्ठया९य पारंचिए १० चेव ॥ ४१६० ॥ [ जी.भा.२७४]
आलोचना प्रायश्चित्तम्१ । प्रतिक्रमणं मिथ्यादुष्कृतप्रदानलक्षणम् २ | मिश्रम् आलोचनाप्रतिक्रमणात्मकम् ३ । विवेकः परिष्ठापनम् ४ । व्युत्सर्गः कायोत्सर्ग: ५ । तपः चतुर्थादिषण्मासपर्यन्तम्६ । छेदः प्रव्रज्यापर्यायस्य दिनैर्मासैर्वा परिहानिः ७ । मूलं पुनर्व्रतारोपणम् ८ । अनवस्थाप्यं९ पाराञ्चितं १० च । अमीषां च दशानां प्रायश्चित्तानां स्वरूपं प्रपञ्चतः पीठिकायामुक्तं कल्पाध्ययने वा ततस्तस्मादवधार्यम् ॥ ४१६० ॥
तदेवं ‘“सपयपरूवणे” ति गतम् १ । अधुना " अणुसज्जणा य दस चोद्दस, अट्ठ दुप्पसहे" इत्यस्य व्याख्यानमाह
दस ता अणुसज्जंती, चोहसपुव्वी य पढमसंघयणं ।
तेण परेण विहं जा तित्थं ताव बोद्धव्वं ॥ ४१६१ ॥ [ जी.भा. २७६]
यावत् प्रथमं संहननं चतुर्दशपूर्वी च तावद् दश प्रायश्चित्तानि अनुषजन्ति स्म । एतौ
For Private And Personal
****
गाथा
| ४१६०-४१६८ अष्टविधं प्रायश्चित्तम्
१५८४ (A)