SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५८३ (A) तदनुरूपान् प्रासादान् निर्मापयामः'। ततस्तै राजभिश्चक्रवर्त्तिनगरे प्रेषितैः स्वकीयश्चित्रकरैः प्रासादस्य निर्मापणं फलकेषु लेखापितम्, लेखाप्य च निजनिजप्रधानवर्द्धकीनां समर्पितम्। तैरपि तदनुरूपाः प्रासादा निर्मापिताः, परं यादृशी लीला चक्रवर्तिप्रासादस्य न तादृशी तेषाम्। तथा चाह- तेषां प्राकृतवर्द्धकिनिष्पादितानां प्रासादानां निर्मापणं नवरं लीलाविहीनं जातम्, आकारः पुनर्भवति स एव यादृशश्चक्रवर्तिप्रासादस्य ॥ ४१५६ ॥ एतदेव किञ्चिद् भावयतिभुंजइ चक्की भोए, पासाए सिप्पिरयणणिम्मविए । किं व न कारेइ तहा, पासाए पागयजणो वि? ॥ ४१५७॥ [जी.भा.२६९] | चक्री चक्रवर्ती शिल्पिरत्ननिर्मापिते वर्द्धकिरत्ननिष्पादिते प्रासादे स्थितस्सन् भोगान् | * भुङ्क्ते। तं च तथा दृष्ट्वा किं प्राकृतजनोऽपि प्राकृतराजलोकोऽपि तथा प्रासादान् न कारयति ? कारयत्येवेति भावः। परं न तादृशस्तेषां रूपविशेषः ॥ ४१५७ ॥ ततः किम्? इत्याह गाथा ४१५४-४५५९ प्रायश्चित्तनिर्वृहणम् १५८३ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy