________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५६६ (B)
अभाषितं च अपरै[ रनुदीरितं] -जेनोदीरितं वा यदवगृह्णाति तदनिश्रितम् ५। निःशङ्कितं भवत्यसन्दिग्धम् ६। एवमवग्रहस्य षड् भेदाः ॥ ४०८८॥
साम्प्रतमीहादीनां षड् भेदान् प्रत्येकं योजयन्नाहउग्गहियस्स उ ईहा, ईहिते पच्छा अणंतरमवातो। अवगते पच्छा धारण, तीए विसेसो इमो नवरं ॥ ४०८९॥ [जी.भा.१९०]
अवगृहीतस्यार्थस्य विषये ईहा प्रवर्त्तते, तत ईहाया अपि उक्तप्रकारेण षड् भेदा भावनीयाः। ईहिते सति पश्चाद् अनन्तरमवाय उपजायते, ततस्तस्याप्युक्तप्रकारेण षड् भेदाः। * अवगते सति पश्चाद् धारणा ततस्तस्या अपि षड् भेदाः । नवरं तस्यां धारणायाम् अयं । वक्ष्यमाणो विशेषः ॥ ४०८९॥
तमेवाहबहुश्बहुविहर पोराणं३ दुद्धर४ मणिस्सिय५ तहेव असंदिद्धं६ । पोराण पुरा वायित, दुद्धर नय-भंगगुविलत्ता ॥ ४०९०।। [जी.भा.१९१]
गाथा ४०८७-४०९४ गणिसम्पत्
१५६६ (B)
For Private And Personal