________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५६६ (A)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
शिष्येण कुतीर्थना वा यद् उच्चारितमात्रमेवावगृह्णाति तत् क्षिप्रमवग्रहणमुच्यते । बहुकं पुनरवग्रहणमिदम्-यत् पञ्च षट् सप्त वा । ग्रन्थशतान्येकवारमवगृह्णाति ॥ ४०८६॥
बहुविह णेगपयारं, जह लिहतिऽवधारए गणेइ वि य ।
अक्खाणगं कहेई, सद्दसमूहं व णेगविहं३ ॥ ४०८७ ॥ [ जी.भा. १८८ ]
बहुविधमवग्रहणं नाम अनेकप्रकारम्, यथा स्वयं लिखति, अन्येन भण्यमानमवधारयति, अन्यच्च सङ्ख्येयं वस्तु गणयति, आख्यानकं च कथयति, अथवा नानापुरुषाश्रितं नानाऽऽतोद्याश्रितं वा शब्दसमूहम् अनेकविधं अनेकप्रकारं प्रत्येकमवगृह्णाति एतद् बहुविधमवग्रहणम् ३ || ४०८७ ॥
न विविस्सर धुवं तं ४, अणिस्सियं जं न पोत्थए लिहियं । अणभासियमवगिण्हति५, निस्संकिय होयऽसंदिद्धं ६ ॥ ४०८८ ॥
[ जी. भा. १८९]
यद् नैव विस्मरति तद् ध्रुवम् ४। अनिश्रितं नाम यन्न पुस्तके लिखितमपेक्षते,
For Private And Personal
गाथा ४०८७-४०९४ गणिसम्पत्
१५६६ (A)