________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
www.kobatirth.org
अपरिणामकादीन्, आदिशब्दादतिपरिणामकपरिग्रहः, छेदसूत्राणामभाजनानि विज्ञाय न वाचयति, नोद्दिशतीत्यर्थः । यथा आमे अपक्के मृत्तिकाघटे यथा वा अम्ले न क्षीरं क्षिप्यते ॥ ४०८० ॥
दशम
उद्देशकः
१५६४ (B)
Acharya Shri Kailashsagarsuri Gyanmandir
जइ छुब्भती विणस्सइ, नस्सइ वा एवमपरिणामादी ।
नोद्दिस्से छेयसुतं, समुद्दिसे या वि तं चेव ॥ ४०८१ ॥ [जी.भा.१८२] यद्यम्ले क्षीरं क्षिप्यते तदा विनश्यति, यदि वा आमे मृत्तिकाघटे घटस्य भङ्गतो नश्यति । एवमपरिणामादौ छेदसूत्रं विनश्यति, नश्यति वा स, ततो नोद्दिशति, एषा विचिन्त्योद्देशनता१ । समुद्दिशेदपि तमेव योग्यम्, नान्यम् । एषा विचिन्त्यसमुद्देशनता२ ॥ ४०८१ ॥
परिनिव्वविया वाए, जत्तियमेत्तं तु तरइ ओघेत्तुं । जाहगदिट्टंतेणं, परिचिते तावन्नमुद्दिसति ॥ ४०८२॥ [ जी.भा. १८३] परिनिर्वाप्य वाचयति । किमुक्तं भवति ? जाहकदृष्टान्तेन यावन्मात्रमवग्रहीतुं शक्नोति
१. " जाहकस्तिर्यग्विशेषः तद् दृष्टान्तं यथा- पातुं थोवं थोवं, खीरं पासाणि जाहगो लिहड़ । एमेव जितं काउं पुच्छति मतिमं न खेदेति ।। " इति आवश्यकहारिभद्री टीका पत्र १०३ ॥
For Private And Personal
गाथा
४०७८-४०८६ गणिसम्पत्
१५६४ (B)