________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १५६४ (A)
वायणभेया चउरो, विजि(चि? )योद्देसण१ समुद्दिसणया उ२। परिनिव्वविया वाए३, निजवणा चेव अत्थस्स४ ॥ ४०७८॥ [जी.भा.१७९]
वाचनाया भेदाश्चत्वारः। तद्यथा- 'विचिन्त्य सम्यग् योग्यतां परिनिश्चित्योद्देशना१ ।। विचिन्त्यैव समुद्देशनतार तथा परिनिर्वाप्य वाचयति३ अर्थस्य निर्यापना च४ ॥ ४०७८ ।। तत्र विचिन्त्योद्देशनमाह
तेणेव गुणेणं तु, वाएयव्वा परिक्खिउं सीसा। उद्दिसति वियाणे, जं जस्स उ जोग्ग तं तस्स ॥४०७९॥ [जी.भा.१८०]
अयमस्य सूत्रस्य वाचनायोग्योऽयमयोग्य इति तेनैव वाचनाविषयेण गुणेन शिष्याः | परीक्ष्य वाचयितव्याः, नान्यथा, यद् यस्य योग्यं तत् तस्य विज्ञाय उद्दिशति ॥ ४०७९ ॥
गाथा अत्रैव प्रकारान्तरमाह
४०७८-४०८६ अप्परिणामगमादी, वियाणिउ अभायणे न वाएति।
गणिसम्पत् जह आम मट्टियघडे, अंबे व न छुब्भती खीरं ॥ ४०८०॥ [जी.भा.१८१]
|१५६४ (A) १. विचित्य पु.प्रे. एवमग्रेऽपि॥
For Private And Personal