________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः
१५६३ (B)
तथा मधुरवचनः२ अनिश्रितवचन:३ असन्दिग्धः असन्दिग्धवचन:४। तत्र आदेयः आदेयवचनो नाम ग्राह्यवाक्यः१ । अर्थावगाढं भवति मधुरं मधुरं वचनं यस्यासौ मधुरवचनः ।
अथवा अपरुषवचनो यदि वा क्षीरास्रवादिलब्धियुक्तो मधुरवचन:२। तथा निश्रितं क्रोधादीनाम् अथवा राग-द्वेषाणां निश्रामुपगतम्, गाथायां तृतीया करणविवक्षातः निश्रितं वचनं यस्य स तथा३॥ ४०७५ ॥ ४०७६ ॥
असन्दिग्धवचनमाहअव्वत्तं अफुडत्थं, अत्थबहुत्ता व होति संदिद्धं। विवरीयमसंदिद्धं, वयणेसा संपया चउहा ॥ ४०७७॥ [जी.भा.१७८]
अव्यक्तं वचोव्यक्तताया अभावात् अस्फुटार्थम् अक्षराणां सन्निवेशविशेषतो विवक्षितार्थसम्पादकत्वाभावात् । अर्थबहुत्वाद् वा भवति सन्दिग्धम्, तद्विपरीतमसन्दिग्धम्, | तद्वचनं यस्य सोऽसन्दिग्धवचनः । एषा वचने सम्पत् चतुर्द्धा चतुष्प्रकारा॥ ४०७७ ॥
सम्प्रति वाचनासम्पदं चतुष्प्रकारामाह
गाथा ४०७१-४०७७
गणिसम्पत्
१५६३ (B)
For Private And Personal