________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देश:
१५६५ (A)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तावन्मात्रमग्रेतने परिचिते उद्दिशति । एषा परिनिर्वाप्य वाचना३ ॥ ४०८२ ॥
अर्थस्य निर्यापनामाह
निज्जवगो अत्थस्सा, जो उ वियाणेइ अत्थ सुत्तस्स ।
अत्थेण व णिव्वहती, अत्थं पि कहेति जं भणियं ॥ ४०८३ ॥ [ जी. भा. १८४]
अर्थस्य निर्यापक इति यद् भणितं तस्यायमर्थः - यो नाम सूत्रस्यार्थं कथ्यमानं विजानाति, यदि वा अर्थेन निर्वहति, अर्थावधारणबलेन सूत्रपाठो निर्वाहमुपयाति तस्यार्थमपि कथयति आस्तां सूत्रं ददातीत्यपिशब्दार्थः ॥ ४०८३ ॥
साम्प्रतं मतिसम्पदं चतुर्भेदामाह
मइसंपय चउभेया, उग्गह१ ईहार अवाय३ धारणा४ य ।
उग्गहमति छब्भेया तत्थ इमा होति नायव्वा ॥ ४०८४ ॥ [ जी. भा. १८५]
मतिसम्पच्चतुर्भेदा । तद्यथा - अवग्रहः १ ईहार अवाय: ३ धारणा४ च । तत्राऽवग्रहणमवग्रहः, अनिर्देश्य सामान्यमात्रग्रहणम् १ | ईहनमीहा, अवगृहीतस्यार्थस्यासद्भूतविशेषपरित्यागेन सद्भूतविशेषादानाभिमुखो बोधविशेष: २ । 'अवायः ' निश्चयः ३ ।
For Private And Personal
गाथा |४०७८-४०८६ गणिसम्पत्
१५६५ (A)