________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
।
व्यवहार
सूत्रम्
दशम
उद्देशकः १५६१ (A)
अनियतवृत्तिर्नाम-अनियतचारी, अथवा अगृहिकोऽविद्यमाननिकेत: अनियतवृत्तिः३। तथा निभृतस्वभावः। एतदेव व्याचष्टे-अचञ्चलो वृद्धशीलो ज्ञातव्य:४॥ ४०६६ ॥
उक्ता आचारसम्पच्चतुर्द्धा, सम्प्रति श्रुतसम्पदश्चातुर्विध्यमाहबहुसुय१ परिचियसुत्तेर, विचित्तसुत्ते३ य होइ बोधव्वे। घोसविसुद्धिकरे या४, चउहा सुयसंपया होइ ॥ ४०६७॥ [जी.भा.१६१]
श्रुतसम्पत् चतुर्दा चतुष्प्रकारा भवति। तद्यथा-बहुश्रुतः१ परिचितसूत्रः२ विचित्रसूत्रः३ घोषविशुद्धिकरः४। सम्पत्-सम्पद्वतोरभेदेनाभिधानम्, श्रुत-श्रुतवतो: कथञ्चिदभेदात्। एवमुत्तरत्र पूर्वं च परिभावनीयम् ॥ ४०६७॥
तत्र बहुश्रुतमाहबहुस्सुय जुगप्पहाणो, अब्भिंतर बाहिरं सुयं बहुहा। होइ चसद्दग्गहणा, चारित्तं पी सुबहुयं तु१॥ ४०६८॥ [जी.भा.१६८]
यस्य बहुधा बहुप्रकारम् अभ्यन्तरम् अङ्गप्रविष्टं बाह्यम् अङ्गबाह्यं श्रुतं भवति विद्यते, चशब्दग्रहणात् सुबहुकं चारित्रमपि यस्य स युगप्रधानो बहुश्रुतः१ ॥ ४०६८॥
१
गाथा ४०६२-४०७०
अष्टप्रकारा गणिसम्पत्
१५६१ (A)
For Private And Personal