________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः
१५५६ (A)
यद्यागमश्च आलोचना च एते द्वे अपि समकं परस्परमविसंवादितया निपततः, यथैव तस्याऽऽगमस्तथैवेतरस्याऽऽलोचना, यथैव तस्याऽऽलोचना तथैवाऽऽगमिन आगमः, एष खलु आगमविमर्श उच्यते। अस्मिन् सति शोधिं ददति, नान्यथा। यदि वा यः सहोऽसहो | वा येन वा यः शुध्यति एतत्परिभावनमागमविमर्शः ॥ ४०४१ ॥
सम्प्रत्याप्तशब्दव्याख्यानमाहनाणमादीणि अत्ताणि, जेण अत्तो उ सो भवे। राग-द्दोसपहीणो वा, जे व इट्ठा विसोधीए ॥ ४०४२॥ [जी.भा.१४१]
ज्ञानादीनि ज्ञान-दर्शन-चारित्राणि येनाऽऽप्तानि स भवत्याप्तः, ज्ञानादिभिराप्यते स्म | आप्त इति व्युत्पत्तेः। यो वा राग-द्वेषप्रहीण: स आप्तः। यदि वा ये इष्टाः विशोधौ | विशोधिविषये ते आप्ताः ॥ ४०४२ ॥
सम्प्रत्युभयशब्दव्याख्यानार्थमाहसुत्तं अत्थो उभयं, आलोयण आगमो व इति उभयं। जं तदुभयं ति वुत्तं, तत्थ इमा होति परिभासा ॥ ४०४३॥ [जी.भा.१४२] |
गाथा ४०४२-४०५० आगमविमर्शस्वरूपादिः
१५५६ (A)
For Private And Personal