________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम उद्देशकः
१५५५ (A)
पञ्चानां प्रमादानामन्यतरेणापि प्रमादेन असम्प्रयुक्तस्य अक्रोडीकृतस्य, किन्त्वेवमेवानुपयुक्तस्य, अत एव ईर्यादिषु समितिषु भूतार्थेन तत्त्वतोऽवर्त्तमानस्य यद्भवनमेतदज्ञानम् ॥ ४०३७॥
अधुना 'भीएण व। पेल्लिएण व परेण' इत्यस्य व्याख्यानमाहभीतो पलायमाणो, अभियोगभएण वा वि जं कुज्जा। पडितो वाऽपडितो वा, पेल्लिज्जा उ पेल्लितो पाणे॥ ४०३८॥
___ [जीतकल्प भा.१३७] | अभियोगभयेन भीतः पलायमानो यत् कुर्यात् प्राणव्यपरोपणादि तद् भीतेनेति द्रष्टव्यम्। तथा परेण प्रेरितस्सन् पतितोऽपतितो वा प्राणान् द्वीन्द्रियादीन् एकेन्द्रियान् वा प्रेरयेत्॥ ४०३८॥
सम्प्रति व्यसनादिपदानि व्याचष्टेजूयादि होइ वसणं, पंचविहो खलु भवे पमादो उ। मिच्छत्त भावणा उ, मोहो तह राग-दोसा य॥ ४०३९ ॥
[जीतकल्प भा.१३८]
गाथा ४०३५-४०४१ प्रतिसेवननिवेदनम्
१५५५ (A)
For Private And Personal