________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
शोधिव्यवहारं प्रयुञ्जते, नान्यथा। तत्र यदि सचित्तं सेवित्वा सचित्तमेवाऽऽलोचयति तदा
द्रव्यशुद्धा सा आलोचना, यदा तु सचित्तं प्रतिसेव्याचित्तमालोचयति तदा द्रव्याऽशुद्धा। तथा व्यवहार
यामवस्थामुपगतं सचित्तं प्रतिसेव्य तामवस्था[मुप]गतं तदालोचयति तदा सा आलोचना सूत्रम् दशम
पर्यायशुद्धा, यदा त्वन्यामवस्थामुपगतं प्रतिसेव्यान्यावस्थमालोचयति तदा पर्यायाऽशुद्धा। तथा उद्देशकः यदि प्रतिसेवनानुलोममालोचयति तदा सा क्रमशुद्धा, उत्क्रमेणाऽऽलोचयतः क्रमाऽशुद्धा। १५५४ (A)INNI तथा यद् यत्र जनपदेऽध्वनि वा प्रतिसेवितं तत् तथैवाऽऽलोचयतः क्षेत्रशुद्धा आलोचना,
जनपदे प्रतिसेवितमध्वनि कथयतः क्षेत्राऽशुद्धा। तथा यद्यदा सुभिक्षे दुर्भिक्षे वा दिवा रात्रौ वा प्रतिसेवितं तत् तदालोचयतः कालशुद्धा, सुभिक्षे प्रतिसेव्य दुर्भिक्षे कथयतो रात्रौ वा | प्रतिसेव्य दिवसे कथयतः कालाऽशुद्धा। तथा येन भावेन अनाभोगादिना सेवितं तं भावं कथयतो भावशुद्धा, उपेत्य प्रतिसेव्यानाभोगादिना कथयतो भावाशुद्धा ॥ ४०३४॥
सम्प्रति भावमेवोपदर्शयति - सहसा अण्णाणेण व, भीएण व पेल्लिएण व परेण। वसणेण पमादेण व, मूढेण व रागदोसेहिं ॥ ४०३५॥ [जी.भा.१३४]
गाथा ४०३५-४०४१ प्रतिसेवन
निवेदनम्
|१५५४ (A)
For Private And Personal