________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
यद्यप्यागमव्यवहारिणः तस्य आलोचकस्यापराधं विजानन्ति शोधिं च, तथापि तेषामपि पुरत आलोचना दातव्या उक्ता तीर्थकर-गणधरैः । यत आलोचयति बहवो गुणाः। तथाहि आलोचनाचार्येण स आलोचकः प्रोत्साह्यते, यथा-'वत्स ! त्वं धन्यः, त्वं सभाग्यः यदेवं मानं निहत्याऽऽत्महितार्थतया स्वरहस्यानि प्रकटयसि, महादुष्करमेतत्'। एवं स प्रोत्साहितः सन् प्रवर्द्धमानपरिणामः सम्यग् निःशल्यो भूत्वा यथावस्थितमालोचयति, शोधिं च सम्यक् प्रतिपद्यते, ततः पर्यन्ते आराधना, स्तोककालेन च मोक्षगमनमिति ॥ ४०३३॥
१५५३ (B)
गाथा
अथ कथमागमिनो व्यवहारं प्रयुञ्जते ? तत आहदव्वेहि पजवेहि य कमखेत्ते कालभावपरिसुद्ध।
४०२९-४०३४ आलोयणं सुणेत्ता, तो ववहारं पउंजंति ॥ ४०३४॥ [जी.भा.१३१]
विधिः द्रव्यैः सचित्तादिभिः पर्यायैः तेषामेव सचित्तादिद्रव्याणामवस्थाविशेषैः परिणामविशेषैः । तथा क्रमतः क्षेत्रतः कालतो भावतश्च परिशुद्धामालोचनां श्रुत्वा ततः, तदनन्तरं व्यवहारं |
| |१५५३ (B)
प्रायश्चित्त
For Private And Personal