________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम्
दशम
उद्देशकः १५५३ (A)
तत्राहकालं कुव्वेज सयं, अमुहो वा होज अहव आयरितो। अप्पत्ते पत्ते वा, आराहण तह वि भयणेवं ॥ ४०३२ ॥
कोऽपि आलोचनां ग्रहीष्यामि इत्यालोचनापरिणामपरिणत आलोचनाग्रहणाय सम्प्रस्थित आलोचनार्हसमीपम्। स च तमप्राप्त एवापान्तराले स्वयं कालं कुर्यात्, यदि वा प्राप्तोऽपि रोगवशादमुखो जातः, अथवा तस्याऽप्राप्तवत एव स आलोचनार्ह आचार्यः कालगतः, यदि वा प्राप्तवतोऽप्यमुखो जातः, ततः स एवमालोचनापरिणामपरिणत आलोचनाया असम्भवेऽपि कालं कुर्वनाराधकः । यदि पुनर्न सम्यगालोचनापरिणामपरिणतस्तदा सोऽनाराधकः । स च तथाकालगतो दीर्घसंसारी भवति । एवमाराधना आलोचनार्हे प्राप्तेऽप्राप्ते वा भजनया भवति ॥ ४०३२॥
सम्प्रत्यागमव्यवहारिणामपि पुरत आलोचनायां गुणानुपदर्शयतिअवराहं वियाणंति, तस्स सोहिं च जइ वि।
तहाऽवाऽऽलोयणा वुत्ता, आलोएंते बहू गुणा ॥ ४०३३॥ [जी.भा.१३०] ||१५५३ (A) १. तधेवालो०- ला.। तहावि आलो० मु.॥
गाथा ४०२९-४०३४ प्रायश्चित्तविधि:
For Private And Personal