________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
दशम उद्देशकः
१५५२ (B)
www.kobatirth.org
आगमववहारी छव्विहो वि आलोयणं निसामेत्ता ।
देति ततो पच्छित्तं, पडिवज्जति सारिओ जइ य ॥ ४०३० ॥
Acharya Shri Kailashsagarsuri Gyanmandir
आगमव्यवहारी षड्विधोऽपि परस्याऽऽलोचनां निशम्य ततः प्रायश्चित्तं ददाति । यदि च कमप्यराधं विस्मृतं स्मारितस्सन् सम्यक् प्रतिपद्यते तदा स्मारयति च । अन्यथा तस्याऽऽलोचनामेव न ददाति ॥ ४०३० ॥
साम्प्रतमुत्तरार्द्धं व्याख्यानयति
आलोइय-पडिक्कंतस्स होइ आराहणा तु नियमेण ।
अणालोइम्मि भयणा, किह पुण भयणा हवति तस्स ? ॥ ४०३१ ॥
[तुला जी. भा. १२७]
पूर्वमपराधजातमालोचितम्, ततस्तस्मात् प्रतिक्रान्तस्य अपुनःकरणतया प्रतिनिवृत्तस्य नियमेन पर्यन्ते सम्यगाराधना भवति । अनालोचिते पुनर्भजना । आह- कथं पुनरनालोचिते तस्याराधनाविषये भजना भवति ॥ ४०३१ ॥
For Private And Personal
गाथा
४०२९-४०३४ प्रायश्चित्तविधि:
१५५२ (B)