________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहारसूत्रम्
दशम
उद्देशकः
१५५२ (A)
www.kobatirth.org
तदेवं यथा श्रुतज्ञानिनोऽपि जानन्ति तथा प्रतिपादितम् । अधुना शोधिविधिमाहआगमतो ववहारं, पर सोच्चा संकियम्मि उ चरित्ते । आलोइयम्मि आराहणा अणालोइए भयणा ॥ ४०२९ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
आगमतः प्रत्यक्षज्ञानी परोक्षज्ञानी वा परे परस्मिन् व्यवहारं करोति परस्याऽऽलोचनां श्रुत्वा, नान्यथा । तत्र यदि कलुषितचारित्रतया न सम्यगालोचयति, किन्त्वालोचनामर्यादामतिक्रम्य वर्त्तते तदा शङ्कितमिति वा भिन्नमिति वा कलुषितमिति वा एकार्थम् । [ एतादृशे ] चारित्रे सति न सम्यगनेनाऽऽलोचितमिति ज्ञात्वा तं ब्रूते- 'अन्यत्र गत्वा शोधिं कुरु' । यदि पुनः सम्यगालोचयति तदा ददाति प्रायश्चित्तम् । अथ यदि प्रत्यक्षागमज्ञानिनः परोक्षागमज्ञानिनो वा सर्वभावविषयपरिज्ञानं ततः कस्मात् तस्य पुरत आलोच्यते ? किन्तु तस्य समीपमुपगम्य वक्तव्यम्—'अपराधान् मे भवन्तो जानते तस्य शोधिं प्रयच्छत' । तत आह- आलोइयम्मी त्यादि। आलोचिते बहुगुणसम्भवतः सम्यगाराधना भवति, अनालोचिते आराधनाया भजना विकल्पना-कदाचिद् भवति कदाचिन्नेति । एतच्चाग्रे भावयिष्यते ॥ ४०२९ ॥
तत्र “ आगमतो ववहारं पर सोच्चे" ति व्याख्यानयति
44
For Private And Personal
܀܀
गाथा
४०२९-४०३४
प्रायश्चित्तविधिः
१५५२ (A)