________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम उद्देश:
१५५१ (B)
www.kobatirth.org
जेसिं जीवाऽजीवा, उवलद्धा सव्वभावपरिणामा ।
सव्वाहि नयविहीहिं, केण कयं ? आगमेण कयं ॥ ४०२७ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
येषां श्रुतबलेन सर्वे जीवा अजीवाश्च उपलब्धा द्रव्यतः, सर्वेषामपि च भावानां पदार्थानामुपलब्धाः श्रुतज्ञानविषयाः परिणामाः पर्यायाः । कैः ? इत्याह- सर्वैर्नैगमादिभिः नयविधिभिः नयविकल्पैस्ते प्रत्यक्षज्ञानिन इव परस्य शोधिं जानन्ति । अत्र परप्रश्नः केन कृतं तत् श्रुतज्ञानं ? यस्येदृशं माहात्म्यम् ? अत आह— आगमेन केवलज्ञानेन कृतम् ॥ ४०२७ ॥ एतावेवाऽऽक्षेप - परिहारौ भावयति
तं पुणकेण कयं तू, सुयनाणं जेण जीवमादीया ।
नज्जंति सव्वभावा ?, केवलनाणीण तं तु कयं ॥ ४०२८ ॥
[जीत क. भा. १२४]
तत् पुनः श्रुतज्ञानं केन कृतं ? येन जीवादयः सर्वे भावा ज्ञायन्ते । सूरिराह - केवलज्ञानिभिः कृतम्, गाथायां षष्ठी तृतीयार्थे प्राकृतत्वात् ॥ ४०२८॥
For Private And Personal
***
गाथा ४०२२-४०२८ श्रुतज्ञानि स्वरूपादिः
१५५१ (B)