________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः १५५१ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
प्रत्यक्षी जिनादिः प्रत्यक्षं प्रतिसेवकस्य भावं जानाति, परोक्षी चतुर्दशपूर्वादिः कथं | जानाति? येन सोऽपि तथैव व्यवहरति । सूरिराह-तत्र तस्मिन् विषये ज्ञातम् उदाहरणम् इदं वक्ष्यमाणं धमकेन शङ्खध्मात्रा ॥ ४०२५ ॥
तदेव दर्शयतिनालीधमएण जिणा, उवसंहारं करेंति पारोक्खे। जह सो कालं जाणति, सुएण सोहिं तहा सोउं ॥ ४०२६॥
[जीत क.भा.१२२] "जिनाः' तीर्थकृतः परोक्षे आगमे उपसंहारं नालीधमकेन कुर्वन्ति। इयमत्र भावनानाडिकायां गलन्त्यामुदकगलनपरिमाणतो जानाति- एतावत्युदके गलिते यामो दिवसस्य
४४०२२-४०२८ रात्रेर्वा गत इति, ततोऽन्यस्य परिज्ञानाय शङ्ख धमति। तत्र यथा स अन्यो जनः शङ्खस्य श्रुतज्ञानि
स्वरूपादिः शब्देन श्रुतेन कालं यामलक्षणं जानाति तथा परोक्षागमज्ञानिनोऽपि शोधिम् आलोचनां श्रुत्वा तस्य यथावस्थितं भावं जानन्ति, ज्ञात्वा च तदनुसारेण प्रायश्चित्तं ददति ॥ ४०२६ ॥ १५५१ (A)
अथ कीदृशास्ते श्रुतज्ञानिनो ये प्रत्यक्षज्ञानिन इव शोधिं जानन्ति? तत आह
गाथा
For Private And Personal