________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार
सूत्रम्
दशम
उद्देशकः १५५० (B)
अथवेति प्रकारान्तरे। रत्नपरीक्षको वणिक् काचमणेः सुमहतोऽपि मूल्यं काकिनी करोति । वज्रस्य तु रत्नस्याऽल्पस्याऽपि मूल्यं तेन क्रियमाणं शतसहस्रं भवति ॥ ४०२३॥
अत्रोपनयमाहइय मासाण बहूण वि, राग-दोसऽप्पयाए थोवं तु। राग-द्दोसोवचया, पणगे वि उ तो बहुं देति ॥ ४०२४॥ [जीतक.भा.१२०]
इति अमुना दृष्टान्तप्रकारेण बहूनामपि मासानां प्रायोग्ये अपराधे वैराग्यभावनोच्छलतो राग-द्वेषाल्पतया स्तोकं प्रायश्चित्तं ददति, सिंहव्यापादकस्येव। रागद्वेषोपचयात् पञ्चकेऽप्यपराधे बहु प्रायश्चित्तं ददति ॥ ४०२४ ॥
अधुना “जिण चोद्दस्सपुव्विए धमए" इत्यस्य व्याख्यानमाहपच्चक्खी पच्चक्खं, पासति पडिसेवगस्स तो भावं। किह जाणति पारोक्खी?, नायमिणं तत्थ धमएणं ॥ ४०२५॥
[जीतक.भा.१२१]
गाथा ४०२२-४०२८
श्रुतज्ञानिस्वरूपादिः
१५५० (B)
For Private And Personal