________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः १५४९ (B)
पञ्चकम्, यावदन्ते नमस्कारसहितम्, 'हा दुष्ठु कृतम्, हा दुष्ठु कारितम् हा दुष्ठु अनुमोदितम्' इत्येवं वैराग्यभावनातो राग-द्वेषहानिं भूयसीमतिभूयसीमतिभूयस्तरामुपलभ्य प्रयच्छन्ति। तथा कस्यचिन्मासिकप्रतिसेवनायामल्पां राग-द्वेषहानिमुपलभ्य पञ्चकहान्या मासिकं ददति, पञ्चविंशतिदिनानि ददतीत्यर्थः । तथा एकाहं नाम अभक्तार्थम्। कस्यचिदभक्तार्थे प्रतिसेविते पञ्चाहं ददति, पञ्चाहे वा प्रतिसेविते एकाहम्, उपलक्षणत्वादस्याऽऽचाम्लमेकाशनकं पूर्वार्द्ध निर्विकृतं पौरुषीं नमस्कारसहितं वा प्रयच्छन्ति । एवं चतुर्दशपूर्व्यादयोऽपि निश्चितं रागद्वेषहानि-वृद्धी उपलभ्य हीनमधिकं वा प्रायश्चित्तं ददति ॥ ४०१९ ॥ ४०२० ॥
अत्र परस्य प्रश्नमुदीरयतिचोयगपुच्छा पच्चक्खनाणिणो थेवे कहं बहुं दिति। दिटुंतो वाणियए, जिण-चोद्दसपुव्विए धमए ॥ ४०२१॥
चोदकस्य अत्र पृच्छा- प्रत्यक्षज्ञानिन: जिनादयः स्तोकेऽपराधे कथं बहु प्रयच्छन्ति प्रायश्चित्तम्? उपलक्षणमेतत् भूयसि वाऽपराधे स्तोकम् ?। अत्र सूरिराह- दृष्टान्तोऽत्र वणिजा द्रष्टव्यः । तथा भूयः परस्य पृच्छा- जिनादयः केवलज्ञानादिबलेन परस्य भावं जानते,
गाथा ४०१५-४०२१
आगमव्याख्यानम्
|१५४९ (B)
For Private And Personal