________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.
श्री व्यवहारसूत्रम् दशम उद्देशकः
१५४९ (A)
यथा केवली केवलज्ञानेन सर्वं द्रव्यं सर्वं क्षेत्रं सर्वं कालं सर्वं भावं च सर्वात्मना स्वपरपर्यायभेदभिन्नं जानाति, एवं श्रुतज्ञान्यपि चतुर्लक्षणं द्रव्य-क्षेत्र-काल-भावरूपं श्रुतबलेन [विजानाति, तत एतेऽप्यागमव्यवहारिण उच्यन्ते॥ ४०१८ ॥
एतदेव प्रस्तुतं प्रायश्चित्तशुद्ध्यधिकारमधिकृत्य योजयतिपणगं मासविवड्डी, मासिगहाणी य पणगहाणी य। एगाहे पंचाहं, पंचाहे चेव एगाहं ॥ ४०१९॥ राग-द्दोसविवडि, हाणिं वा णाउ देंति पच्चक्खी। चोद्दसपुव्वादी वि हु, तह नाउं देंति हीणऽहियं ॥४०२०॥[जीतक.भा.११५६] यथा प्रत्यक्षिणः प्रत्यक्षागमज्ञानिनः 'तुल्येऽप्यपराधे' पञ्चकयोग्ये एकस्य पञ्चकं ददति, || अपरस्य रागद्वेषविवृद्धिमुपलभ्य मासेन मासाभ्यां मासैर्वा वृद्धिं प्रयच्छन्ति। उपलक्षणमेतत्, व्याख्यानम् मूलमनवस्थाप्यं पाराञ्चितं वा यच्छन्ति। तथा तुल्येऽपि पाराञ्चितयोग्येऽपराधे एकस्य पाराञ्चितम्,
१५४९ (A) अपरस्याऽनवस्थाप्यं, मूलं, छेदं वा मासेन मासाभ्यां मासैर्वा हान्या तपो वा चशब्दात्
गाथा ४४०१५-४०२१
आगम
For Private And Personal