________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहार
सूत्रम् दशम
उद्देशकः १५४८ (B)
पारोक्खं ववहारं, आगमतो सुयधरा ववहरंति। चोद्दस-दसपुव्वधरा, नवपुव्वि य गंधहत्थी य ॥ ४०१६॥ [जीतक.भा.११२]
ये श्रुतधराः चतुर्दशपूर्वधरा दशपूर्वधरा नवपूर्विणो वा गन्धहस्तिनः गन्धहस्तिसमानास्ते आगमतः परोक्षं व्यवहारं व्यवहरन्ति ॥ ४०१६ ॥
अत्राऽऽक्षेप-परिहारावभिधित्सुराहकिह आगमववहारी?, जम्हा जीवादयो पयत्था उ। उवलद्धा तेहिं तू, सव्वेहिं नयविगप्पेहिं ॥ ४०१७॥ [जीतक.भा.११३]
कथं केन प्रकारेण साक्षात् श्रुतेन व्यवहरन्त आगमव्यवहारिणः प्रोच्यन्ते? । सूरिराहयस्माद् जीवादयः पदार्थास्तैश्चतुर्दशपूर्वधरादिभिः सर्वैयविकल्पैः नैगमादिनयभेदैरुपलब्धाः ॥ ४०१७॥
एतदेव सविशेषमाहजह केवली वियाणइ, दव्वं खेत्तं च कालभावं च। तह चउलक्खणमेयं, सुयनाणी वी विजाणाति ॥ ४०१८॥[जीतक.भा.११४] |
गाथा ४०१५-४०२१
आगमव्याख्यानम्
१५४८ (B)
For Private And Personal