________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
.X.
श्री
व्यवहारसूत्रम्
दशम
यद्यपि पूर्वादिकं श्रुतं तथापि यस्य आगमः चतुर्दशपूर्वादिकः परोक्षोऽपि प्रत्यक्षागमसदृशः प्रत्यक्षावध्यादितुल्यरूपो भवति सोऽप्यागमव्यवहारवान् वक्तव्यो भवति। यथा चन्द्रसदृशमुखी कन्या चन्द्रमुखीति। एतदुक्तं भवति-यद्यपि पूर्वाणि श्रुतम्, नागमः ।
तथापि चतुर्दशादीनि पूर्वाणि अवध्याद्यागमतुल्यानीति तैर्व्यवहरन् आगमव्यवहारवानुच्यत उद्देशकः
इति ॥ ४०१४ ॥ सम्प्रत्यागमस्य व्याख्यानमाह१५४८ (A)|
नायं आगमियं ति य, एगटुं जस्स सो परायत्तो। सो पारोक्खो वुच्चइ, तस्स पएसा इमे होति ॥ ४०१५॥ [जीतक.भा.१११] | ज्ञातम् आगमितमित्येकार्थम्, एवं च ज्ञानमागम इत्येकार्थमापतितम्। तत्र यस्य आगमोऽपराधीनः स प्रत्यक्ष उच्यते, स चावध्यादिरूपः। यस्य तु परायत्तः स परोक्ष
उच्यते, स च चतुर्दशपूर्वादिसमुत्थः, तस्य परोक्षस्याऽऽगमस्य प्रदेशाः प्रविभागा भेदा | * इत्यर्थः, इमे वक्ष्यमाणा भवन्ति ॥ ४०१४ ॥
तानेवाह
गाथा ४०१५-४०२१
आगमव्याख्यानम्
१५४८ (A)
For Private And Personal