________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
व्यवहारसूत्रम्
दशम
H
उद्देशकः
१५४७ (A)|
प्रत्यक्षोऽपि द्विविधः, तद्यथा- इन्द्रियजो१ नोइन्द्रियजश्चर। तत्र इन्द्रियजः प्रत्यक्षः पञ्चसु रूपादिषु विषयेषु ज्ञातव्यः ॥ ४००९ ॥ नोइंदियपच्चक्खो, ववहारो सो समासतो तिविहो।
ओहि मणपज्जवे या, केवलनाणे य पच्चक्खो ॥ ४०१०॥ यस्तु नोइन्द्रियजः प्रत्यक्षो व्यवहारः स समासतस्त्रिविधः, तद्यथा- अवधिप्रत्यक्षं१ मनःपर्यवप्रत्यक्ष केवलज्ञानप्रत्यक्षम्३ ॥ ४०१० ॥ तत्रावधिप्रत्यक्षमाहओहिगुणपच्चइए, जे वटुंते सुतंगवी धीरा। ओहिविसयणाणत्थे, जाणसु ववहारसोधिकरे ॥ ४०११॥
अवधिर्द्विधा- भवप्रत्ययो१ गुणप्रत्ययश्चर । तत्र संयतानां गुणप्रत्यय एव, न भवप्रत्ययः, तत आह- अवधौ गुणप्रत्यये ये वर्तन्ते श्रुताङ्गविदो धीरास्तान् अवधिविषयज्ञानस्थान् जानीत व्यवहारशोधिकरान् शुद्धव्यवहारकारिणः ॥ ४०११ ॥
गाथा ४००५-४०१४
पञ्चविधा व्यवहाराः
|१५४७ (A)
For Private And Personal