________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् दशम उद्देशकः
१५४५ (B)
एवम् उक्तेन प्रकारेण नवभेदेन समाहारोऽयम्, नवभिर्भेदैः प्राणातिपातादिके अतीचारे ४ यत् प्रायश्चित्तं तद् भावविषयमिति भावः। तत्र निरपेक्षाणां प्रतिमाप्रतिपन्नादीनां
मनसाऽप्यतीचारसेवने प्रायश्चित्तम्। इतरेषां गच्छस्थितानाम् उभयेन वाचा कायेन चातीचारसेवने प्रायश्चित्तमिति ॥ ४००२ ॥
वायाम-वग्गणादी, धावण डेवणय होति दप्पेण। पंचविहपमायम्मी, जं जहि आवजई तं तु ॥ ४००३॥
यनिष्कारणं व्यायाम-वल्गनादि करोति, यदि वा धावनं डेपनं वा-लोष्टादेः प्रक्षेपणं | तद्विषयं प्रायश्चित्तं भवति ज्ञातव्यं दर्पण। तथा पञ्चविधे पञ्चप्रकारे प्रमादे यं प्रमादमापद्यते यत्र, [ तत्र ] तद् भवति प्रमादविषयं प्रायश्चित्तम् ॥ ४००३ ॥
सम्प्रति पुरुषानाहगुरुमाईया पुरिसा, तुल्लऽवराहे वि तेसि नाणत्तं। परिणामगाइया वा, इड्डिमनिक्खंत असहू वा ॥ ४००४॥
गाथा ३९९८-४००४
भावविषयं प्रायश्चित्तम्
|१५४५ (B)
For Private And Personal