________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम
उद्देशकः १५४५ (A)
साक्षाद् वचसा व्यक्तीकृतं ते जानते प्रायो जडप्रज्ञत्वात् ततः एवं सति वचसाऽनुक्तेऽपि निवारणाभावाद् मनसा कारापणं बोद्धव्यम्। सम्प्रति मनसाऽनुज्ञातं भावयति-चूतवनम् उप्तम् पूर्वमारोपितम्' यदि वा उप्यते आरोप्यमाणं तिष्ठतीति ज्ञात्वा साधुश्चिन्तयति शोभनं चूतवनमुप्तमुप्यते वा, एषा मनसाऽनुज्ञा ॥ ३९९९॥ ४००० ।।
एवं वय-कायम्मी, तिविहं करणं विभास बुद्धीए। हत्थादिसन्न छोडिं, इय काए कारणमणुण्णा ॥ ४००१ ॥
एवम् उक्तप्रकारेण वचसि काये च त्रिविधं करणं करण-कारणा-ऽनुमननलक्षणं बुद्ध्या विभाषेत। तत्र वचसि सुप्रतीतम्। काये तु दुर्विभावमिति तद्भावनामाह-हत्थादि इत्यादि। X| अत्रापि कायेन स्वयं करणमतिप्रतीतम्। ततः कारणमाह- हस्तादिसंज्ञा कायेन, गाथायां सप्तमी तृतीयार्थे, कारणम्। तथा छोटिं नखच्छोटिकां ददतः कायेन अनुज्ञा ॥ ४००१ ॥
एवं नवभेएणं, पाणइवायादिगे उ अइयारे। निरवेक्खाण मणेण वि, पच्छित्तियरेसि उभएणं ॥ ४००२॥
गाथा ३९९८-४००४ भावविषयं प्रायश्चित्तम्
१५४५ (A)
For Private And Personal