SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रायश्चित्तं पिण्डे पिण्डविषयमुपधिविषयं च, क्व ? इत्याह- दशके षोडशके च । इयमंत्र भावना-पिण्डमुपधिं वा दशभिरेषणादोषैः पञ्चदशभिरुद्गमदोषैः, इहाध्यवपूरकस्य मिश्रेऽन्तर्भावविवक्षणात् पञ्चदशभिरित्युच्यते, षोडशभिरुत्पादनादोषैरविशुद्धं गृह्णानस्य प्रायश्चित्तम् । तदपि च प्राक् कल्पाध्ययनेऽभिहितमिति न भूयो भण्यते ॥ ३९९२ ॥ तदेवं सचित्ते अचित्ते इति द्वारद्वयं गतम् । अधुना 'क्षेत्रद्वारं कालद्वारं' चाहजणवय अद्धाण रोधए, मग्गादीए य होइ खेत्तम्मि । दुभिक्खे य सुभिक्खे, दिवा व रातो व कालम्मि ॥ ३९९३ ॥ श्री व्यवहार सूत्रम् दशम उद्देश : १५४२ (B) Acharya Shri Kailashsagarsuri Gyanmandir जनपदे अध्वनि रोधके मार्गातीते च यत् प्रायश्चित्तं तत् क्षेत्रे क्षेत्रविषयं भवति । इयमत्र भावना - जनपदेऽपि वसन् संस्तरन्नपि चाध्वानं प्रतिपन्नानां यः कल्पस्तमाचरति, अध्वानं प्रतिपन्नो वा न यतना करोति, दर्पेण वाऽध्वानं प्रतिपद्यते, तथा रोधकेऽपि सेनासूत्रे यो विधिरभिहितस्तं न करोति, मार्गातीतं क्षेत्रातिक्रान्तमशनादिकमाहारयति, एतेषु यत् प्रायश्चित्तं तत् क्षेत्रविषयमिति । सम्प्रति कालद्वारम् - दुर्भिक्षे सुभिक्षे दिवा रात्रौ च काले कालविषयम् । किमुक्तं भवति ? सुभिक्षेऽपि काले संस्तरन्नपि दुर्भिक्षकल्पमाचरति, यदि वा दुर्भिक्षे अयतनां T For Private And Personal गाथा |३९९२-३९९७ क्षेत्रादिषु प्रायश्चित्तम् १५४२ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy