SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहार सूत्रम् दशम उद्देशकः १५४२ (A) अहवा अट्ठारसगं, पुरिसे इत्थीसु वज्जिया वीसं। दसगं च नपुंसेसुं, आरोवण वणिया तत्थ ॥ ३९९२॥ पृथिव्यादीनां सङ्कट्टनादौ प्रत्येकं यदापत्तिप्रायश्चित्तं तत् स्वस्थानमित्युच्यते। तच्च "छक्काय | चउसु लहुया" [गा.१३५] इत्यादिना प्रागेवाभिहितम्। इदं तु दानप्रायश्चित्तमभिधीयते। किं तद् ? इत्याह- चतुर्थादि। तद्यथा- पृथिव्यादिकं वनस्पतिपर्यन्तमेकेन्द्रियम् अपद्रावयति जीविताद् व्यपरोपयति तदा अभक्तार्थः, द्वीन्द्रियमपद्रावयतः षष्ठम्, त्रीन्द्रियमपद्रावयतोऽष्टमम्, चतुरिन्द्रिये दशमम्, पञ्चेन्द्रिये द्वादशकम् । तत्तियमेत्ता व कल्लाणा इति अथवा यस्य यावन्ति इन्द्रियाणि तस्य तावन्ति कल्याणानि प्रायश्चित्तम्। तद्यथा- एककल्याणकमेकेन्द्रियाणां परितापने [पौरुषीत्यर्थः] । द्वे कल्याणके द्वीन्द्रियाणाम्, पूर्वार्द्धमित्यर्थः । त्रीणि कल्याणकानि त्रीन्द्रियाणाम्, एकाशनकमिति भावः । चतुरिन्द्रियाणामाचाम्लम्। पञ्चेन्द्रियाणामभक्तार्थः ॥ ३९९० ॥ ३९९१ ॥ अथवेदं वर्जनायां सचित्ते प्रायश्चित्तम् - वर्जना नाम प्रव्राजनायां निषेधः । तत्र पुरुषे अष्टादशकं वर्जितम्। स्त्रीषु वर्जिता विंशतिः । दशकं च नपुंसकेषु। तत्राह - अथवा आरोपणाप्रायश्चित्तं प्राक् कल्पाध्ययने सप्रपञ्चमभिहितमिति ततोऽवधार्यम्। अचित्ते पिंड उवही इत्यादि, अचित्ते गाथा ३९९२-३९९७ क्षेत्रादिषु प्रायश्चित्तम् |१५४२ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy