________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
।
व्यवहारसूत्रम् दशम उद्देशकः
१५४० (B)
सुय-सुहदुक्खे खेत्ते मग्गे विणओवसंपयाए य। बावीस पुव्वसंथुय वयंस दिट्ठाऽऽभढे य सव्वे य ॥ ३९८५॥
श्रुतोपसम्पदि उपसम्पद्यमानो द्वाविंशतिं लभते। तद्यथा- षड् अमिश्रवल्ल्याम्- माता१ पितार भ्राता३ भगिनी४ पुत्रो५ दुहिता६ इत्येवंरूपान्। षोडश मिश्रवल्ल्याम्, तद्यथा- मातुर्माता१
पिता२ भ्राता३ भगिनी४। एवं पितुरपि ४। भ्रात्रादीनां तु चतुर्णां प्रत्येकं द्विकम् तद्यथा8 पुत्रो दुहिता च। सुखदुःखोपसम्पदि पूर्वसंस्तुतान् माता-पितृसम्बद्धान्, उपलक्षणमेतत् मित्र
वयस्यप्रभृतीनि च। क्षेत्रोपसम्पदि वयस्यान्, इदमप्युपलक्षणम्, पूर्वसंस्तुतान् पश्चात्संस्तुतान् नालबद्धवल्लीद्विकं च लभते। मार्गोपसम्पदि दृष्टाऽऽभाषितान्, चशब्दाद् वल्लीद्विकं मित्राणि च। विनयोपसम्पदि सर्वान् लभते, नवरं निवेदयति ॥ ३९८५ ॥
एतदेवाहखेत्ते मित्तादीया, सुतोवसंपन्नतो उ छल्लभते। अम्मापिउसंबद्धे, सुहदुक्खी ईयरो दिढे ॥ ३९८६॥
गाथा ३९८३-३९९१
क्षेत्रादिषु व्यवहारः
|१५४० (B)
For Private And Personal