SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५३९ (B)| ___ यत् ते आगन्तुका वास्तव्या वा सचित्तं लभन्ते, उपलक्षणमेतत्, अचित्तं वा। तस्मिन् | लब्धेऽन्योन्यस्य निवेदना कर्त्तव्या यथा- 'एतद् मया सचित्तमचित्तं वा लब्धम् यूयं प्रतिगृह्णीत।' एवं निवेदने कृते द्वितीयो न गृह्णाति, परं सामाचारी एषेत्यवश्यं निवेदनं कर्त्तव्यम्। अनिवेदने प्रायश्चित्तं लघुको मासः। एतदेव सविशेषमाह- ववहारेण उ इत्यादि, यदि न निवेदयति तदा असामाचारी, तत्प्रतिषेधार्थं व्यवहारेण आगमप्रसिद्धेन तद् हृत्वा तस्य मासलघु प्रायश्चित्तं दत्त्वा तस्यैव पुनः प्रतियच्छन्ति॥ ३९८१ ॥ सम्प्रति "नायमनाए" इत्यस्य व्याख्यानमाहनाए व अनाए वा होति परिच्छाविही जहा हेट्ठा। अपरिच्छणम्मि गुरुगा, जो य परिच्छाए अविसुद्धो ॥ ३९८२ ॥ ३९७८-३९८२ | विनयोपसम्पत् ज्ञाते अज्ञाते वा भवति द्रव्यादिभिः परीक्षाविधिर्यथा अधस्ताद्भणितस्तथा कर्त्तव्यः।। यदि पुनरपरीक्ष्योपसम्पद्यते, योऽपि च गच्छ: परीक्षायाम् अविशुद्धः प्रमादीति कृत्वा ||१५३९ (B) तमपि ये उपसम्पद्यन्ते तेषां प्रत्येकं प्रायश्चित्तं चत्वारो गुरुकाः ॥ ३९८२ ॥ गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy