________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५३९ (A)
साम्प्रतमेनामेव गाथां विवरीषुः प्रथमतः "पुच्छण साहण अपुच्छ" त्ति व्याख्यानार्थमाहकारणमकारणे वा, अदिट्ठदेसं गया विहरमाणा। पुच्छा विहारखेत्ते, अपुच्छ लहुतो य, जं वावि ॥ ३९८०॥
कारणे अशिवादिलक्षणे अकारणे विहारप्रत्ययं सुखविहारो भविष्यतीति बुद्ध्या विहरन्तो यथासुखमक्लेशेन सूत्रार्थान् कुर्वन्तोऽदृष्टपूर्वं देशं गताः। तत्र च तेषां साम्भोगिकाः सन्ति. |: ततस्तैरागन्तुकैस्ते वास्तव्याः साम्भोगिकाः पुच्छा विहारखेत्ते त्ति मासकल्पप्रायोग्याणि वर्षावासप्रायोग्याणि वा विहारक्षेत्राणि प्रष्टव्याः, तानि च तैः कथयितव्यानि। यदि न पृच्छन्ति पृष्टा वा ते न कथयन्ति तदा द्वयानामपि प्रत्येकं प्रायश्चित्तं लघुको मासः । यच्च पृच्छामन्तरेण कथनमन्तरेण वा स्तेन-श्वापदादिभ्योऽनर्थं साधवः प्राप्नुवन्ति तन्निष्पन्नमपि तेषां द्वयानामपि प्रायश्चित्तम् ॥ ३९८०॥ अधुना "गहणे य" इत्यस्य व्याख्यानमाह
४३९७८-३९८२ सच्चित्तम्मि उ लद्धे, अन्नोन्नस्स अनिवेयणे लहुगो।
विनयोपसम्पत् ववहारेण उ हाउं, पुणरवि दाउं, नवरं मासो ॥ ३९८१॥
|१५३९ (A) १. दाणे-पु.प्रे.मु.॥
गाथा
For Private And Personal