________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम उद्देशकः
१५३८ (B)
विणयोवसंपयाओ, पुच्छण साहण अपुच्छगहणे य। नायमनाए दोन्नि वि, नमंति पक्किल्लसाली वा ॥ ३९७९॥
अत ऊर्ध्वं विनयोपसम्पद् वक्तव्या इति शेषः। सा चैवम्- कारणतोऽकारणतो वा |* केचिद् विहरन्तः अदृष्टपूर्वं देशं गताः, तैर्वास्तव्यानां साम्भोगिकानां समीपे प्रच्छनं कर्त्तव्यम्, यथा-कानि मासप्रायोग्याणि क्षेत्राणि? कानि वर्षावासप्रायोग्याणि ? एवं पृष्टैस्तैरपि साधनं कथनं कर्त्तव्यम्, अन्यथा वक्ष्यमाणप्रायश्चित्तप्रसक्तेः। अथ त एवाऽऽगन्तुका न पृच्छन्ति तदा तेषामपि प्रायश्चित्तम्। गहणे य त्ति सचित्तादिकस्य ग्रहणे सति परस्परं निवेदनं कर्त्तव्यम्- यथैतत् सचित्तमचित्तं वा लब्धम्, यूयं गृह्णीतेति, अनिवेदने असामाचारी। तथा नायमनाए त्ति, ते आगन्तुका वास्तव्याश्च परस्परं जानन्ति, यथा यतन्ते, न प्रमादिनः,
गाथा अनाए त्ति, न जानन्ति किं यतन्ते ? किं वा प्रमादिनः?। तत्र ज्ञातानज्ञातान् वा द्रव्यादिभिः |
४३९७८-३९८२ परीक्ष्योपसम्पद्येरन्, नान्यथा। दोन्नि वि नमंति त्ति ते च परीक्षापूर्वकमुपसम्पद्यमाना द्वयेऽपि
विनयोपसम्पत् परस्परं नमन्ति। किमुक्तं भवति ? रत्नाधिकस्य प्रथमतोऽवमरत्नाधिकेनाऽऽलोचना दातव्या,
१५३८ (B) पश्चाद् रत्नाधिकेनावमरत्नाधिकस्य। अत्र पक्वशालयो दृष्टान्तः- यथा पक्वाः शालयः परस्परं नमन्ति तथात्रापीति भावः ॥ ३९७९ ।।
For Private And Personal