________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम
उद्देशकः १५३८ (A)
उपेत्य स्वज्ञातिकान् दृष्ट्वा नष्ट उपनष्टः, अन्येन वा पथा स विवक्षिते स्थाने गतो भविष्यतीत्येवं सङ्कल्प्य ये मार्गोपदर्शनायोपसम्पन्ना(समपद्यन्त)स्ते यदि तं न गवेषयन्ति तदा ते अगवेषयन्तस्तस्य सत्कं न किञ्चिल्लभन्ते। यदि पुनरद्यापि न गवेषित इति परिणते चेतसि प्रयत्नं विधाय गवेषयन्ति तदा तस्यादर्शनेऽपि खलु तत्सत्कं लाभं लभन्ते॥ ३९७७ ॥ अथोपसम्पद्यमानानां किमाभवति ? किं वा न? इत्यत आह
अम्मा-पिति संबद्धा, मित्ता य वयंसगा य जे तस्स। दिट्ठाऽऽभट्ठा य तहा, मग्गुवसंपन्नतो लहति ॥ ३९७८ ॥ व्रजन्तः प्रत्यागच्छन्तो वा यत् ते उपसम्पद्यमानाः सचित्तादिकमुत्पादयन्ति तत् सर्वं |
गाथा मार्गोपदर्शकस्य नेतुराभवति। ये पुनः माता-पितृसम्बद्धा, नालबद्धवल्लीद्विकमिति भावः।
३९७८-३९८२ मित्राणि वयस्या दृष्टाऽऽभाषिताश्च ये तमभिधारयन्ति तान् मार्गोपसम्पन्नः मार्गोपसम्पदं | विनयोपसम्पत् प्रतिपन्नो लभते॥ ३९७८ ॥
४|१५३८ (A) तदेवं गता मार्गोपसम्पत्। सम्प्रति विनयोपसम्पदमाह
For Private And Personal