________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
दशम उद्देशकः
१५३७ (B)
यदि प्रत्यागच्छन्ति तदैतत् गतागतमित्युच्यते, तस्मिन् मार्गोपसम्पत्। गयनियत्ते इति अनुपसम्पन्ना एवाऽऽत्मीयेन व्यक्त-विहाडादिना समं गताः, तस्य च कालगततया प्रतिभग्नत्वादिना वा कारणेन प्रत्यागन्तव्यं नाभवत्, ततः प्रत्यागच्छन्तस्तं (न्तोऽन्य) साधुमुपसम्पद्यन्ते, एषा गतनिवृत्ते मार्गोपसम्पत्। तथा फिडित गविढे तहेव अगविटे इति, स्फिटितो नाम-नष्टः, कथं नष्टः? तत आह- उब्भामगेत्यादि, उद्भामकभिक्षाचर्यया अदृष्टपूर्वे विषये गतः, ततो न जानाति कुतो गन्तव्यम् ? इति स्फिटितः । अथवा स्वज्ञातयो गवेषमाणाः | | समागताः. ततस्तस्मात स्थानाददष्टपर्वे विषये नष्टस्ततः स्फिटितः। तथा अभाषकोऽदृष्टपूर्वे । विषये पृष्ठतो लग्नो याति परं मिलितुं न शक्नोति, स च दृष्ट्वाऽपि प्रतिप्रच्छनीयदेशभाषामजानन् न प्रतिपृच्छति ततः पथात्परिभ्रष्टो नश्यति, स च नष्टो गवेषणीयः। तत्र स्फिटिते गवेषिते तथैव चागवेषिते आभवनमार्गणा कर्त्तव्या ॥ ३९७६ ॥ तत्र तदेव गवेषयतामगवेषयतां चाऽऽभवनमनाभवनमाहउवण? अन्नपंथेण वा गयं अगवेसंत न लभंति। अगविट्ठो त्ति परिणते, गवेसमाणा खलु लभंति ॥ ३९७७॥
गाथा ३९७१-३९७७ | मार्गोपसम्पत्
१५३७ (B)
For Private And Personal