________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५३७ (A)
www.kobatirth.org
अथ कीदृशो मार्गोपदर्शननिमित्तमुपसम्पद्यते ? तत आहअव्वत्तो अविहाडो, अदिट्ठदेसी अभासितो वा वि । एगमणेगे उवसंपयाए चउभंगो जा पंथो ॥ ३९७५ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
अव्यक्तो वयसा१ अविहाडो अप्रगल्भः २ अदृष्टदेशी अदृष्टपूर्वदेशान्तरः ३ अभाषिकः देशभाषापरिज्ञानविकलः४ । सा चोपसम्पत् एकस्य अनेकस्य च । अत्र चतुर्भङ्गी । तद्यथाएकं एक उपसम्पद्यते१ एकमनेकः २ अनेकमनेकः ३ अनेकमेक: ४ । सा चोपसम्पत्तावद् यावत् पन्थाः । किमुक्तं भवति ? - यावत् पन्थानं व्रजति ततो वा प्रत्यागच्छतीति ॥ ३९७५ ।। एतदेव सविशेषमभिधित्सुराह
गयागते गयनियते, फिडिय गविट्ठे तहेव अगविट्ठे ।
उब्भामग सन्नायग, नियट्ट अद्दिट्ठ अभासी य ॥ ३९७६ ॥
अव्यक्ता अविहाडा अदेशिका अभाषिका वा अन्यं साधुमुपसम्पद्यन्ते- 'अस्मान् अमुकप्रदेशे नयत' । अथवा यत्र तेषां गन्तव्यं तत्र ये विवक्षितसाधोरन्ये व्यक्त - विहाडादयो गन्तुकामास्तान् ब्रुवते — 'वयं युष्माभिस्सह समागमिष्यामस्तत्र यत्र ( यूयम् ) गन्तुकामा 'स्ततो
For Private And Personal
गाथा |३९७१-३९७७ मार्गोपसम्पत्
१५३७ (A)