________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः १५३६ (B)
एषा अनन्ततरोदिता खलु उपसम्पद् वर्णिता समासेन सुखदुःखे। अथ अनन्तरमत उर्ध्वं मार्गे अवग्रहवर्जिते वक्ष्ये, मार्गोपसम्पदं वक्ष्ये इत्यर्थः ॥ ३९७२ ॥ अथ चेयं व्युत्पत्तिःमार्गदर्शनायोपसम्पत् -
मग्गोवसंपयाए, गीयत्थेणं परिग्गहीयस्स। अग्गीयस्स वि लाभो, का पुण उवसंपया मग्गे? ॥ ३९७३ ॥ मार्गोपसम्पदि प्रतिपन्नायामगीतार्थस्यापि सतो गीतार्थेन परिगृहीतस्य लाभो भवति, | अन्यथा 'अगीतार्थस्य न किञ्चिदाभवति' इति वचनान्न कोऽपि लाभः स्यात्। का पुनरुपसम्पद् मार्गे इति चेत् : ॥ ३९७३ ॥
'अत' आहजह कोई मग्गन्नू, अन्नं देसं तु वच्चती साहू। उपसंपज्जइ उ तगं, तत्थऽन्नो गंतुकामो उ ॥ ३९७४ ॥
यथेति मार्गोपसम्पद उपप्रदर्शने। यथा कश्चित् साधुर्मार्गज्ञोऽन्यं देशं व्रजति, तत्र देशे अन्यो गन्तुकामः तकं साधुमुपसम्पद्यते 'अहमपि युष्माभिः सह समागमिष्यामि' ॥ ३९७४॥
गाथा ३९७१-३९७७ मार्गोपसम्पत्
|१५३६ (B)
For Private And Personal