________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
X.
श्री
N
X
व्यवहारसूत्रम् दशम
उद्देशकः १५३५ (B)|M
WW.
तेनाभिधारितस्य भवति, तदपि च परम्परया व्रजद् अन्तिमस्याभिधार्यमाणस्य विश्राम्यति। मण्डल्यामन्येनाच्छिद्यमानो लाभोऽनन्तरस्याभिधार्यमाणस्योपतिष्ठति। एवम् उक्तेन प्रकारेण सुखदुःखे सुखदुःखोपसम्पदमभिजिघृक्षोरभिधारयतः सचित्तादौ मार्गणा कृता ॥ ३९६८॥
सम्प्रति प्रकारान्त रेण सुखदु:खोपसम्पदमुपसम्पन्नेऽभिधारयति सचित्तादौ मार्गणां करोतिजइ से अस्थि सहाया, जइ वा वि करेंति तस्स तं किच्चं। तो लभते इहरा पुण, तेसि समणुण्णाण साहारं ॥ ३९६९॥
यदि से तस्य सुखदुःखोपसम्पन्नस्य सहायाः सन्ति, यदि वा 'त एव' येषां समीपे उपसम्पन्नः तस्य सुखदुःखितस्य तत् कृत्यं वैयावृत्त्यादि कुर्वन्ति तदा यत् तस्योपतिष्ठति | तत्ते लभन्ते। इतरथा पुनस्तेषां समनोज्ञानां साम्भोगिकानां साधारणं तद् भवति ॥ ३९६९॥
अपुण्णकप्पिया जे ऊ, अन्नोन्नमभिधारए।
अन्नोन्नस्स लाभो उ, तेसिं साहारणो भवे ॥ ३९७०॥ १. तं-लभते पु.प्रे.॥
गाथा ३९६४-३९७० सुखदुःखोपसम्पत्
१५३५ (B)
For Private And Personal