SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् www.kobatirth.org माता- पितृप्रभृतीनि श्वश्रूश्वसुरप्रभृतीनि च यदि तं सुखदुःखोपसम्पन्नमभिधारयन्त्युपतिष्ठन्ते व्रतग्रहणाय परक्षेत्रेऽपि तदा स तानि द्वयान्यपि परक्षेत्रेऽपि लभते, तेन " परक्षेत्रेऽपि लभते इति प्रतिपत्तिः स्यादित्येवंलक्षणेन कारणेन क्षेत्रस्य ग्रहणं कृतम्, अन्यथा न कमप्यर्थं पुष्णाति । यस्यापि समीपे स उपसम्पन्नः सोऽपि तानि न गृह्णाति, सूत्रादेशतोऽनाभाव्यत्वात् ॥ ३९६३ ॥ दशम उद्देशकः १५३४ (A) परखेत्ते वसमाणो, अतिक्कमंतो व न लभति असन्निं । छंदेण पुव्वसन्नी, गाहियसम्मादि सो लभति ॥ ३९६४॥ Acharya Shri Kailashsagarsuri Gyanmandir परकीये क्षेत्रे तिष्ठन् व्यतिक्रामन् वा यस्तस्य सुखदुःखोपसम्पन्नस्य उपतिष्ठते स यदि असंज्ञी अविदितपूर्वस्तदा तमसंज्ञिनं न लभते, केवलं स क्षेत्रिकस्याऽऽभवति । यः पुनः पूर्वसंज्ञी पूर्वविदितस्वरूपस्तं पूर्वसंज्ञिनं छन्देन लभते । यदि स वल्लीसम्बद्धो भवति, तं च सुखदुःखितमभिधारयति तदा लभते । अथ तं नाभिधारयति, अभिधारयन्नपि च वल्लीसम्बद्धो न भवति, ततो यस्य समीपे सुखदुःखोपसम्पदं जिघृक्षुः सम्प्रस्थितस्तस्याऽऽभवति । गाहियसम्मादि सो लभते इति, यदि स सुखदुःखितेन सम्यक्त्वं ग्राहितः, आदिशब्देन मद्यमांसविरतिं वा, ततः पश्चात् प्रव्रज्यापरिणामपरिणतः स यद्यपि वल्लीद्विकसम्बद्धो न For Private And Personal गाथा | ३९६४-३९७० सुखदुःखोपसम्पत् १५३४ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy