________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री | व्यवहार
सूत्रम् दशम उद्देशकः
१५३३ (B)
तस्य सहायकः कोऽपि न विद्यते। न च परस्मात् सूत्रमपेक्षते, स्वयं सूत्रार्थपरिपूर्णत्वात्। केवलमेकाकिनि दोषगणं विदित्वा स गच्छं समाप्तकल्पम् अभ्येति अभ्युपगच्छति ॥ ३९६१ ॥ तत्रोपसम्पन्नमधिकृत्याऽऽभवद्व्यवहारमाह
खेत्ते सुहदुक्खी ऊ, अभिधारिताई दुन्नि वी लभति। पुर-पच्छसंथुयाइं, हिट्ठिल्लाणं च जो लाभो ॥ ३९६२ ॥
सुखदुःखी सुखदुःखोपसम्पदमुपसम्पन्नः क्षेत्रे परक्षेत्रेऽपि, एतदर्थमेव क्षेत्रग्रहणम्, : अन्यथैतन्निरर्थकं स्यात्, द्वयान्यपि पूर्वसंस्तुतानि पश्चात्संस्तुतानि वाभिधारयन्ति लभते । ये च तेन दीक्षितास्तेषामधस्तनानां यो लाभः सोऽपि तस्याऽऽभवति ॥ ३९६२॥
सम्प्रति 'क्षेत्रे' इत्यस्य विवरणाहपरखेत्तम्मि वि लभती, सो दो वी तेण गहण खेत्तस्स। जस्स वि उपसम्पन्नो, सो वि य से न गिण्हए ताई ॥ ३९६३॥
गाथा ३९५६-३९६३ श्रुतोपसम्पत्
|१५३३ (B)
For Private And Personal