________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् दशम उद्देशकः
१५३३ (A)
विश्राम्यति ततः सा छिन्नोपसम्पत्। एवं छिन्नाच्छिन्नभेदेनाऽऽवलिका-मण्डलिकाक्रमः पठत्यपि पूर्वोक्त एव द्रष्टव्यः। तदेवमुक्तैषा श्रुतोपसम्पत्। अत ऊर्ध्वं सुखदुःखतां सुखदुःखोपसम्पदं वक्ष्ये ॥ ३९५९ ॥
तामेवाहअभिधारे उववन्नो, दुविहो सुहदुक्खितो मुणेयव्वो। तस्स उ किं आभवती, सच्चित्ताऽचित्तलाभस्स ? ॥ ३९६०॥
सुखदुःखितो द्विविधो ज्ञातव्यः। तद्यथा- अभिधारयतीति अभिधारः अभिधारयन्, उपपन्नः सुखदुःखोपसम्पदं प्राप्तः। तस्य द्विविधस्यापि सचित्तलाभस्य अचित्तलाभस्य वा मध्ये किमाभवति? इति वक्तव्यम् ॥ ३९६० ॥
अथ कः सुखदुःखोपसम्पदमुपपद्यते ? तत आहसहायगो तस्स उ नत्थि कोई, सुत्तं च तक्केइ न सो परत्तो। एगाणिए दोसगणं विदित्ता, सो गच्छमब्भेइ समत्तकप्पं ॥ ३९६१॥
VANI
गाथा ३९५६-३९६३ श्रुतोपसम्पत्
|१५३३ (A)
For Private And Personal