SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५३० (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कञ्चिदाचार्यमभिधारयन् सम्प्रस्थितः, तत्र यं गच्छमभिसन्धार्य सम्प्रस्थितस्तमप्राप्ते एव स आचार्यः कालगतः, अत्र च त्रयः प्रकाराः - पुव्विं पच्छा निग्गय त्ति, यदैवाभिधारयन् निर्गतस्तदैव कालगत: स आचार्यः १ । अथवा पूर्वमभिधारयन् निर्गतः पश्चादाचार्यः कालगतः २ । यदि वा पूर्वमाचार्यः कालगतः पश्चादभिधारयन् निर्गतः ३ । अत्र प्रथमे प्रकारे यत् नाभिधारयता पथि सचित्तादि लब्धं तत् कालगताचार्यशिष्याणामाभवति‍ । द्वितीये प्रकारे लब्धे अलब्धे वा सचित्तादिके यद्युपरताः स्थविरास्तदापि तत् सचित्तादि तच्छिष्याणामाभवतिर । तृतीयेप्रकारे तेनाभिधारयता दूरादागच्छता तावन्न ज्ञातं यावत् तं गच्छं प्राप्तः, ततो यन्निमित्तं स तत्रागतस्तच्छ्रुतं यदि तस्य शिष्यस्यास्ति तदा स तत् श्रुतं तस्मै दातुमिच्छति ततः कालगताचार्यस्य लभन्ते शिष्याः सचित्तादिकम्, यद्यपि सोऽभिधारको विपरिणतो न गृह्णाति (इच्छति ) शिष्यस्य सकाशात् श्रुतं ग्रहीतुं तथापि कालगताचार्याणामेव तत् सचित्तादि भवति । अथ तत् श्रुतं नास्ति न वा ददाति तदा न लभन्ते कालगताचार्यशिष्याः सचित्तादिकम् । आह— 'किं कारणं तृतीयेऽपि प्रकारे कालगताचार्यशिष्याणा मेवाऽऽभवति ?' तत आह- बलियत्ति बलवती श्रुताज्ञा, तत् श्रुतं तदवस्थमेव यन्निमित्तं तेनाभिधारितम् । सुद्धमसुद्धे अदेंत देंते य इति यत् कालगताचार्यस्य शिष्याणामाभवति तद् यद्यभिधारको For Private And Personal गाथा | ३९५१-३९५५ कालग | अभिधार्यमाणे व्यवहारः १५३० (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy