SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् XX दशम उद्देशकः १५२७ (A) यदभिधारयता पथि लब्धं सचित्तं तदभिधारितस्य स्वयं वा गत्वा समर्पयति, अन्यस्य वा हस्ते प्रेषयति। अथ नार्पयति स्वयमन्यप्रेषणेन वा तत्राह- मग्गणेत्यादि। तत्र कहण परंपर त्ति यैः स दृष्ट आगच्छन् तैर्यः पूर्वमभिधारितस्तस्य परम्परकेणाख्यातम्, यथा'युष्मानभिधारयता तेन सम्प्रस्थितेन सचित्तं लब्धं तद् युष्माकं तेन न प्रेषितम्'। मग्गण त्ति स चैतत् श्रुत्वा तं मार्गयति–'क्व गतो भवेन्मम सचित्तहारी?' इति। मृगयमाणैश्च स्नानादिसमवसरणे दृष्टः, पृष्टश्च यथा-'अमुककाले अस्मानभिधारयता समागच्छता सचित्तं लब्धं तन्मह्यं देहि', यदि न ददाति तदा बलाद् व्यवहारेण दाप्यते, मायानिष्पन्नश्च तस्य गुरुको मासः । प्रायश्चित्तं सचित्ते चत्वारो गुरुकाः। अचित्ते उपधिनिष्पन्नम्। स पुनरभिधारयन् यैः सचित्तैः सोऽभिधार्यते तेषां मध्ये किं लभते ? इत्याह- छम्मीसं चेव वल्लिद्गमिति। षट् नालबद्धानि निर्मिश्राणि लभते मिश्रं च, एवंरूपं निर्मिश्रमिश्रलक्षणं वल्लिद्विकं लभते ।। ३९४० ॥ साम्प्रतमेनामेव गाथां विवृण्वन्नाह अभिधारते पढ़ते वा, छिन्नाए ठाति अंतए। मंडलीए उ सट्ठाणं, लभते नो उ मज्झिमे ॥ ३९४१॥ १. वयते-ला.मु.॥ गाथा ३९३७-३९४३ श्रुतद्वारम् |१५२७ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy