________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
दशम
तदेवं गतं क्षेत्रद्वारम्। अधुना श्रुतद्वारमाहव्यवहार
दुविहा सुओवसंपय, अभिधारते१ तहा पढंते२ य। सूत्रम्
एक्केक्का वि य दुविहा, अणंतर१ परंपरार चेव ॥ ३९३७ ॥ उद्देशकः द्विविधा श्रुतोपसम्पत्। तद्यथा- अभिधारयति१ पठतिर च, एकैकाऽपि द्विधा१५२६ (A) II अनन्तरा परम्परा च। तत्राभिधारयत्यनन्तरा नाम- एकः साधः कञ्चिदाचार्यमभिधारयति
योऽसावभिधार्यमाणः स न किञ्चिदन्यमभिसन्धारयति। परम्परा नाम-एको यतिः कञ्चिदाचार्यमभिधारयति, सोऽप्यभिधार्यमाणोऽन्यमभिधारयति, सोऽप्यन्यम्, सोऽप्यन्यम्, एवमनियतं परिमाणम् ॥ ३९३७ ॥
एतदेवाहएत्थं सुयं अहीहामि, सुयवं सो य अन्नहिं।
वच्चंतो सोऽभिधारेंतो, सो वि अन्नं तमेव वा ॥ ३९३८॥ १. अत्र ३९३८ गाथायं तृतीयं चरणे अनुष्टुप् च्छन्दः॥
गाथा ३९३७-३९४३
श्रुतद्वारम्
|१५२६ (A)
For Private And Personal