________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५२२ (B)
स्म' इति ॥ ३९२३ ॥
घोषणस्यैव प्रकारान्तरमाह
www.kobatirth.org
विभिज्जंते व ते पत्ता, न्हाणादीसु समागमे । पहुप्ते य नो कालाऽऽसन्ना घोसणयं ततो ॥ ३९२४ ॥
साधूनां स्नानादिषु समागमे यो यत आगतः स तत्र संस्थितः, ते च विवक्षिताः क्षेत्रमनुज्ञाप्य तत्र प्राप्ताः, तत्र यद्येकैकस्य गच्छस्य समीपे गत्वा क्रमेण कथ्यते तदा कालो न प्राप्यते, उत्सूरस्य भवनात् ततो ये सङ्घसमवायाच्चैत्याद्वा सम्प्रस्थितास्तान् आसन्नान् कृत्वा मेलापके मेलापयित्वा महता शब्देन घोषणकं कुर्वते यथा - ' शृणुत साधवः ! अस्माभिरमुकं क्षेत्रं वर्षानिमित्तमनुज्ञापितमिति' ॥ ३९२४ ॥ 'सोच्चा सन्निस्से 'त्यादि [गा. ३९२२] व्याख्यानार्थमाह
दाणादिसड्ढकलियं, सोऊणं तत्थ कोइ गच्छेज्जा ।
रमणिज्जं खेत्तं ति य, धम्मकहालद्धिसंपन्नो ॥ ३९२५ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal
गाथा
| ३९२३-३९२९ क्षेत्रानुज्ञापना
१५२२ (B)