________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री | व्यवहारसूत्रम्
| दशम उद्देशकः १५२२ (A)
प्रागुक्तां घोषणां श्रुत्वा कोऽपि धर्मकथालब्धिसम्पन्नो धर्मश्रद्धिकास्तत्र श्रावका भूयांसस्तिष्ठन्तीति परिभाव्य निर्मर्यादस्तत्र पूर्वतरं गतः, गत्वा च संज्ञिनः संज्ञिवर्गस्य प्रेरणा | संस्तव-धर्मकथादिभिरात्मीकरणम्, ततः पश्चादागताः क्षेत्रिकाः, तैः स पृष्टः- 'युष्माकमग्रे
कथितं ततः कस्मादिह त्वमागतः?' स तूष्णीक आसीत्, ततः क्षेत्रिकैरुक्तम्- 'गच्छत यूयं सम्प्रत्यपि'। श्रावकवर्गश्च तस्मिन् पूर्वस्थिते परिणत आसीत् ततः स पश्चाद् ब्रूते'मा निर्गच्छतु, वयं द्वयोरपि वर्तिष्यामहे'। अत्र यत् सचित्तमुपधिश्च तत् क्षेत्रिकाणामाभवति. न से तस्य निर्मर्यादस्य। श्रावकवर्गस्य वा इच्छा प्रभवति ॥ ३९२२॥
साम्प्रतमिमामेव गाथां व्याचिख्यासुः प्रथमतो 'घोषणकं' भावयतिबाहुल्ला संजयाणं तु, उवग्गो यावि पाउसे। ठिया मो अमुगे खेत्ते, घोसणऽण्णोण्णसाहणं ॥ ३९२३॥
संयतानां समन्ततः प्रत्यासन्नेषु स्थानेषु बाहुल्याद् उपाग्रश्च अतिप्रत्यासन्नश्च प्रावृट्कालः, अपिशब्दादन्यानि च वर्षाप्रायोग्याणि क्षेत्राणि प्रचुराणि न सन्ति, ततो माऽन्ये प्रविशन्त्विति स्नानादिसमवसरणे घोषणाम् अन्योन्यकथनं कृतवन्तः, यथा- 'वयममुकक्षेत्रे स्थिताः
गाथा ३९२३-३९२९ | क्षेत्रानुज्ञापना
*१५२२ (A)
For Private And Personal