________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री व्यवहारसूत्रम् दशम उद्देशकः १५२१ (B)|
द्वौ पुनः प्रागुक्तावविधिस्थितौ तेषाम् अथवा इयमन्या मार्गणा ॥ ३९२० ॥ तामेवाहपेहेऊणं खेत्तं केइ हाणादि गंतु ओसरणं। पुच्छंताण कहेंती, अमुगत्थ वयं तु गच्छामो ॥ ३९२१॥
केचित् साधवो वर्षारात्रयोग्यं क्षेत्रं प्रत्युपेक्ष्याऽनुज्ञाप्य चेदं चिन्तयन्ति, यथा- अत्र | प्रत्यासनेषु स्थानेषु समन्ततो बहवो गच्छाः, क्षेत्राणि च वर्षाप्रायोग्याणि तत्र प्रचुराणि न सन्ति, समासन्नश्च वर्षाकालः, ततो मा केचिदन्येऽजानन्तोऽत्र तिष्ठेयुरिति स्नानादिसमवसरणे सर्वेऽपि मिलिता भविष्यन्तीति तत्र गत्वा सर्वेषां विदितं कुर्मः। एतच्चिन्तयित्वा तदनन्तरं स्नानादिसमवसरणं गत्वा तेषां पृच्छतां कथयन्ति-'अमुकत्र वयं वर्षाकरणाय गच्छाम' इति ॥ ३९२१॥
घोसणय सोच्च सन्निस्स, पेल्लणा पुव्वमतिगए पच्छा। पुवट्ठिते परिणते, पच्छ भणंते न से इच्छा ॥ ३९२२॥
गाथा ३९१६-३९२२ क्षेत्रानुज्ञापना
|१५२१ (B)
For Private And Personal