________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
पूर्वसूत्रादनन्तरमुक्तं, नवरं प्रथममनन्तरं सूत्रं निजकस्यात्मीयस्योपकरणस्यावग्रहेऽनुज्ञापनाविषयं द्वितीयमधिकृतं तु सूत्रं परस्य परकीयस्य शय्यातरसत्कस्यान्यसत्कस्य वा इत्यर्थः, अवग्रहे अनुज्ञापनायाम् एवमनेन सम्बन्धेनायातस्यास्य व्याख्या -
व्यवहारसूत्रम्
अष्टम
उद्देशकः
नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिकं शय्यासंस्तारकं शय्यातरसत्कमन्य सत्कं वा द्वितीयमप्यवग्रहमननुज्ञाप्य बहिनिहर्तुं नेतुम्। अनुज्ञाप्य पुनः कल्पते इति सूत्रसक्षेपार्थः ॥ सम्प्रति निर्यक्तिविस्तर:
१३७६ (B)
परिसाडिमपरिसाडी, पुव्वं भणिया इमं तु नाणत्तं । पडिहारिय सागारिय, तं चेवंतो बहिं नेति ॥ ३४९१॥
परिशाटि: यादृशः संस्तारको भवति यादृशश्चाऽपरिशाटिरेतौ द्वापि पूर्वमस्मिन्नेवाष्टमोद्देशके भणिता इदं त्वत्र नानात्वं, तदेवाह- प्रातिहारिकं सागारिकसत्कं तमेव शय्यासंस्तारकमन्तःस्थितं बहिर्नयति ॥ ३४९१ ॥
सूत्र ७
गाथा ३४८९-३४९४
शय्यासंस्तारकग्रहणे पुनः अनुज्ञापना
१३७६ (B)
एतदेव सविस्तरं भावयति
For Private and Personal Use Only