________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
अष्टम
उद्देश :
१३७५ (B)
܀܀܀܀܀܀
www.kobatirth.org
तैरेव गृहस्थैर्दापयति मात्रकात् पानीयमपवर्त्तापयति अपवर्त्ताप्य द्वाभ्यां हस्ताभ्यामञ्जलिं कृत्वा पिबति । अथ नेच्छति गृहस्थोऽपवर्त्तयितुं ततो वामहस्तेन स्वयमपवर्त्य एकेन हस्तेनाञ्जलिं कृत्वा पिबति । तथा यदि क्षुल्लगे चड्डगे न सर्वं भक्तं माति तदा यः पानीयपानविषये विधिरुक्तः स एवात्रापि द्रष्टव्यः । तथा चाह - एवमेव अनेनैव प्रकारेण डहरे क्षुल्लके कच्चके द्रष्टव्यम् || ३४८७ ॥
अप्पडिबज्झतगमो, इयरे वि गवेसए पयत्तेणं ।
एमेव अवुड्स्स वि, नवरं गहिएण अडणं तु ॥ ३४८८ ॥
Acharya Shri Kailassagarsuri Gyanmandir
एवं यतनां कुर्वतो व्रजिकादिष्वप्रतिबध्यमानस्य प्रतिबन्धमकुर्वतो गमो गमनं गच्छे भवति । इतरेऽपि च गच्छसाधवस्तं स्थविरं प्रयत्नेन गवेषयन्ति । गाथायामेकवचनं प्राकृतत्वात्। योऽप्यवृद्धः कारणतः कथमप्येकाकी भवेत्तस्याप्येवमेव अनेनैव प्रकारेण द्रष्टव्या, नवरं भिक्षार्थमटनं गृहीतेनोपकरणेन तस्य द्रष्टव्यम् ॥ ३४८८ ॥
सूत्रम् - नो कप्पइ निग्गंथाण वा निग्गंथीण वा पाडिहारियं वा, सागरियसंतियं वा सेज्जासंथारगं दोच्चं पि ओग्गहं अणणुन्नवेत्ता बहिया नीहरित्तए ॥ ६ ॥
For Private and Personal Use Only
सूत्र ६ गाथा
| ३४८२-३४८८
विधि:
| १३७५ (B)